नवग्रह स्तोत्र

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोसर्वपापनं प्रणतोऽस्मि दिवाकरम् ॥ १॥

नवग्रह स्तोत्र
नवग्रह स्तोत्र

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । 
तमोसर्वपापनं प्रणतोऽस्मि दिवाकरम् ॥ १॥ 
दधिशंखतुषाराभं क्षीरार्णवसमुद्भवम् । 
नमामि शशिनं सोमं शंभोर्मुकुटभूषणम् ॥ २ ॥ 
धरणीगर्भसंभूतं विद्युकाञ्चनसंनिभम् । 
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥ 
प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । 
सौम्यं सौम्यगु- णोपेतं तं बुधं प्रणमाम्यहम् ॥ ४ ॥ 
देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् । 
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ ५ ॥ 
हिमकुदमे॒णालाभं दैत्यानां परमं गुरुम् । 
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६ ॥ 
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् । 
छायामार्तण्डसंभूतं तं नमामि शनैश्वरम् ॥ ७ ॥ 
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । 
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८ ॥ 
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । 
रौद्रं रुद्रात्मक घोरं तं केतुं प्रणमाम्यहम् ॥९॥ 
इति व्यासमुखोगीतं ये पठन्ति समाहिताः । 
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १० ॥ 
नरनारीनृपाणां च भवेद्दुःस्वप्रनाशनम् । 
ऐश्वर्यमतुलं तेज आरोग्यं पुष्टिवर्धनम् ॥ ११ ॥ 
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः । 
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥ १२ ॥