संकटनाशन गणेश स्तोत्र
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्त्या वै संस्मरेन्नित्यमायुष्कामार्थसिद्धये ।।

आमच्या युट्युब चॅनलला आजच सबस्क्राईब करा
आमच्या युट्युब चॅनलला आजच सबस्क्राईब करा
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्त्या वै संस्मरेन्नित्यमायुष्कामार्थसिद्धये १३
प्रथमं वक्रतुण्डं च एकदंष्ट्रं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्रं चतुर्थकम् ॥ १४ ॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ १५ ॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ १६ ॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ १७ ॥
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् १८
जपेद्गुणपतिस्तोत्रं षद्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ १९ ॥
अनां ब्राह्मणानां यो लिखित्वेदं प्रयच्छति ।
तस्य विद्या भवेत्पूर्णा गणेशस्य प्रसादतः ॥२०॥
'इति श्रीनारदविरचितं महागणपतिस्तोत्रं संपूर्णम् ॥